Top

पत्राचारद्वारा संस्कृतम् ।
गृहे पठ्यतां संस्कृतभाषा।
Learn More

आबालवृद्धानां संस्कृततृष्णाशमनाय बहुविधानि पुस्तकानि।
Online Order

संस्कृताय मुक्तहस्तेन
दानं कुर्वन्तु।
Donate Now

  Click Here To Download Form 10BE.    Download Samskrit Bharati E-Book Android Mobile Application. 

परिचयः
संस्कृतभारती:

अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् । संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति ।

संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति । संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।

विवरणम्

10 कोटि

जनाः संस्कृतसम्भाषणस्य
शिक्षणं प्राप्तवन्तः

1,00,000

जनाः संस्कृतस्य
पाठनार्थं प्रशिक्षिताः

6000

संस्कृतगृहाणि
निर्मितानि

26

देशेषु ४५००
संस्कृतशिक्षणकेन्द्राणि आरब्धानि

वयं किं कुर्मः?
भाषायाः पुनरुज्जीवनेन
संस्कृतेः पुनरुज्जीवनम्

पाठ्यक्रमाः

संस्कृतभारती संस्कृतस्य अध्ययनाय सम्भाषणकौशलवर्धनाय च सम्भाषणशिबिरं, पत्राचारद्वारा संस्कृतं, गीताशिक्षणकेन्द्रं, सरलसंस्कृतपरीक्षा इत्यादिकं चालयति ।
विवरणम्

परियोजनाः

अत्यन्तं प्राथमिकस्तरे संस्कृतस्य संवर्धनार्थं संस्कृतभारत्या बह्व्यः परियोजनाः स्वीकृताः । एताभिः परियोजनाभिः लक्षशः जनाः संस्कृतस्य संवर्धनाय रक्षणाय च प्रशिक्षिताः ।
विवरणम्

वार्ताः

समाजस्य अनेकान् वर्गान् मनसि निधाय संस्कृतभारती विविधान् कार्यक्रमान् संचालयति । देशे विदेशेषु च संचाल्यमानानां कार्यक्रमाणां विवरणं प्राप्तुम् अत्र पश्यन्तु ।
विवरणम्

पुस्तकविक्रयणम्

बालानां प्रौढानां च कृते सर्वेषु स्तरेषु उपयोगाय संस्कृताध्ययनार्थं कथाः, उपन्यासाः, व्याकरणपुस्तकानि, जीवनचरितानि चेति विविधानि पुस्तकानि सरलसंस्कृतेन रचितानि ।
विवरणम्

संवादशाला

संवादशाला इत्येषा संभाषणकौशलवर्धनाय संचाल्यमानः आवासीयवर्गः। अत्र संस्कृतव्याकरणं, वाक्यरचना इत्यादीनां प्रयोहगाधारितं शिक्षणं दीयते। अद्यावधि प्रशिक्षिताः सहस्रशः जनाः एव संवादशालायाः उपयोगित्वे प्रमाणम् ।

विवरणम्
अल्पमपि क्षितौ क्षिप्तं वटबीजं प्रवर्धते ।
जलयोगात् यथा दानात् पुण्यवृक्षोऽपि वर्धते ॥

वयं किं कुर्मः?
संस्कृतभारती:

भवतां स्थाने एव सञ्चाल्यते
अवधिः - 10 दिनानि

संस्कृतसम्भाषणशिबिरम्


संस्कृतस्य प्राथमिकशिक्षणार्थं अत्युत्तमः उपक्रमः। केवलं 10 दिनानि, प्रतिदिनं 2 होरात्मकः कालः। संस्कृतस्य पूर्वज्ञानस्य आवश्यकता नास्ति। १० दिनेषु भवान्/भवती संस्कृतेन सम्भाषितुं शक्ष्यति ।
जनवरी जुलै च
प्रतिस्तरं षट् मासाः

पत्राचाराद्वारा संस्कृतम्


स्तराः - प्रवेशः, परिचयः, शिक्षा, कोविदः इति चत्वारः स्तराः माध्यमानि - तमिल, मलयालम्, तेलुगु, कन्नड, आङ्ग्लम्, मराठी, गुजराती, हिन्दी, बङ्गला, उडिया इत्यादिमाध्यमेषु पाठक्रमः उपलभ्यते ।
संस्कृतं पठन्तु
18 मासाः

गीताद्वारा संस्कृतम्


18 मासाः गीताद्वारा संस्कृतम् भगवद्गीताद्वारा संस्कृतं पठन्तु । गीतासोपानम् (2 पुस्तके), गीताप्रवेशः (3 पुस्तकानि) । एतस्मिन् विषये अधिकविवरणार्थं कृपया संस्कृतभारत्याः स्थानीयकार्यकर्तुः सम्पर्कं कुर्वन्तु।
जनवरी जुलै च
15 दिनानि

संवादशाला


संवादशाला इत्येषा संभाषणकौशलवर्धनाय संचाल्यमानः आवासीयवर्गः । संस्कृतस्य पूर्वज्ञानम् आवश्यकम् । देहल्यां (मईमासतः फरवरीमासपर्यन्तम्), काश्यां (आवर्षम्) च भवति ।

संस्कृतभारती:
अस्माकं सम्पर्कं कुर्वन्तु

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,