
इतिहासस्य अङ्गं भवितुम् इदम् आमन्त्रणम् ! चतुष्चत्वारिषदः वर्षेभ्यः पूर्वं संस्कृतं व्यवहारभाषां कर्तुं यः असाधारणः प्रयत्नः आरब्धः सः इदानीं संस्कृतस्य पुनरुज्जीवकरूपेण परिगणितः वर्तते। एतेन न केवलं राष्ट्रस्य पुनर्निर्माणम् अपि तु भारतीयसंस्कृतेः अपि विकासः भवति इत्येतत् निश्चितम्। भारतस्य उपत्रिसहस्त्रस्थानेषु, विश्वस्य २७ देशेषु च नियतरूपेण कार्यं कुर्वती संस्कृतभारती लक्षशः जनानां हृदयं स्पृष्टवती अस्ति। प्रायः संस्कृतभारत्याः ऋते तादृशी अन्या कापि संस्था न स्यात् या स्वेच्छया प्रवृत्तैः निष्ठावद्भिः कार्यकर्तृभिः चाल्यते ।
प्रत्येकमपि उत्साहिनः संस्कृतसमर्थकस्य स्वप्नः अस्ति यत् संस्कृतभारत्याः अन्ताराष्ट्रियः मुख्यालयः देहल्यां भवतु इति। देहल्याः मुख्यभूते दीनदयाल-उपाध्यायमार्गे ३८,३४३ स्क्वेर् फ़ीट् विस्तीर्णं स्थानं केन्द्रीयसर्वकारेण संस्कृतभारत्यै दत्तम्। देहल्याः अस्मिन् केन्द्रस्थाने संस्कृतभारत्याः अन्ताराष्ट्रियमुख्यालयस्य निर्माणकार्येण इतिहासस्य एकः नूतनः चरणः अपि लिखितः ।
एतदर्थम् अपेक्षितस्य धनराशेः संग्रहणम् अस्मदीयमेव उत्तरदायित्वम् अस्ति। एतद् धनं संस्कृतभारती crowd funding इति न, अपि तु समाजनिधिः इति मन्यते।
आगच्छन्तु, अस्मिन् कार्ये सहकुर्वन्तु, अद्यावधि प्रवृत्तासु संस्कृतस्य परियोजनासु महत्तमायाः अस्याः परियोजनायाः समर्थनं पोषणं प्रोत्साहनं च कुर्वन्तु। आयान्तु, वयं सर्वे अस्य भवनस्य निर्माणार्थं स्वीयं योगदानं कुर्मः। आयान्तु, विश्वस्य सर्वाधिकशोभमानायाः संस्कृतभाषायाः द्वारा भारतीयप्राचीनज्ञानस्य संरक्षणे प्रचारे च स्वीयं योगदानं कुर्वन्तु। न्यूनातिन्यूनं एकं square meter निर्माणाय आवश्यकं धनं समर्पयन्तु। यैः पुराकाले समर्पणं कृतं स्यात् तैः अपि पुनः दानं करणीयम्। स्वीयं कार्यम् अस्ति इति मत्वा वारं-वारं करणीयम्।
आमन्त्रण है इतिहास का एक अंग बनने का ! ४४ वर्ष पूर्व, संस्कृत को बोल-चाल की भाषा बनाने का जो एक असाधारण प्रयास आरम्भ हुआ था आज वह संस्कृत को पुनरुज्जीवित करने का एक अन्ताराष्ट्रीय अभियान बन गया है। इससे न केवल राष्ट्र का पुनर्निर्माण होगा अपितु हमारी संस्कृति का भी पुनरुत्थान होना निश्चित है। भारत में लगभग ३००० स्थानों पर विस्तार पाकर और विश्व के २७ देशों में नियमित कार्य करते हुए संस्कृतभारती ने लाखों लोगों के मर्म को स्पर्श किया है। कारण, संस्कृत भारत की आत्मा है।
दिल्ली में संस्कृतभारती का वैश्विक केन्द्र बनाने का कार्यकर्ताओं का सपना अब लगभग पूरा होने जा रहा है। इस अन्तिम दौर को finishing stage कहते हैं। इसी में समय और धन की सर्वाधिक आवश्यकता होती है। इसलिए सभी से निवेदन है कि कम-से-कम एक square meter निर्माण की राशि समिधा के रूप में इस यज्ञ में समर्पित करें। अधिक देनेवालों का स्वागत है। जिन्होंने कुछ वर्ष पूर्व धनराशि समर्पित की होगी उनसे फिर से दान देने का आग्रह है।
PROJECT DESCRIPTION
Samskrita Bharati constructing its International Headquarters at 25 Deen Dayal Upadhaya Marg, New Delhi. Below are the features of the project -
Plot Area: 1428 Sq. Meters (30 Meters * 47.60 Meters)
Max height: 25.4 Meter
Total Project Cost : 20 crore
8.5 floors are already constructed.
Two underground parkings + one stilt.
First floor for office, administration and book selling.
Second for classes.
Two floors are for residents. (Some permanent and some temperery karyakartas)
One floor for Hall
1/2 floor for servants and 1/2 for terrace garden.
Solar pannels are also to be erected.
दानशूराः भवन्तु इति पुनश्च निवेदनम्।