Top
1. बालकेन्द्रम्
- बालकेन्द्रं बालानां कृते संस्कृतभारत्या संरचिता विशिष्टा योजना अस्ति । अत्र बालाः प्रशिक्षितकार्यकर्तृभिः सायं काले अथवा विरामदिनेषु संस्कृतं पाठ्यन्ते ।
- बालानां नित्यजीवने संस्कृतभाषायाः विनियोगस्य परिचयः ।
- मातृभूमेः विषये प्रेम-आदरादिभावानां विकासः ।
- प्रमाणपत्रीयपाठ्यक्रमसदृशः पाठ्यक्रमः ।
- अत्यन्तम् आधुनिकेन सम्प्रेषणात्मकविधिना नवीनपद्धतीभिः कण्ठस्थीकरणशैल्याः भिन्नतया सरलरूपेण सहजतया च भाररहितं भाषाशिक्षणं क्रियते ।
- पञ्चतन्त्रकथाभिः, सुभाषितैश्च संस्कृतसाहित्यस्य परिचयः ।
- सरलं व्याकरणम् ।
- बह्व्यः कथाः, गीतानि, क्रीडाः, हास्यकणिकाश्च छात्रान् सक्रियान् स्थापयन्ति, पाठ्यक्रमञ्च स्पष्टं सुग्राह्यं च कुर्वन्ति ।
- सदा छात्राः धाराप्रवाहरूपेण भाषितुं प्रेर्यन्ते, मध्ये आगतानां लघुदोषाणां गणना क्रियते ।
- हरिश्चन्द्रः, राणाप्रतापः, झांसीराणी, विवेकानन्दः इत्यादीनां महापुरुषाणां कथाः ।
- एकलव्यः, अभिमन्युः, आरुणिः इत्यादीनाम् आदर्शपात्राणां कथाः ।
- शिक्षकाणां प्रत्यक्षपद्धत्या पाठयितुम्, शिक्षणोपकरणानां च प्रयोगार्थं च समये समये प्रशिक्षणं प्रदास्यते ।
2. भाषाबोधनवर्गः
- दशदिनसम्भाषणशिबिरस्य अनन्तरम् एषः 7-10 दिनानाम् आवासीयः वर्गः।
- संस्कृतसम्भाषणकौशलस्य सम्यक् रूपेण विकासः कार्यते अस्मिन् वर्गे ।
- वर्गानन्तरं प्रशिक्षार्थिनः सरलसंस्कृतसम्भाषणे आत्मविश्वासं धाराप्रवाहं च प्राप्नुवन्ति ।
- भाषायाः प्राथमिकस्य व्याकरणस्य परिपुष्टीक्रियते ।
- विभिन्नप्रकारकाः प्रयोगाः पाठ्यन्ते ।
- शब्दानां धातूनां तद्भवशब्दानां च ज्ञानं प्रयोगश्च विकासति ।
3. शिबिरचालकप्रशिक्षणवर्गः
- प्रतिवर्षम् आभरतम् एषः वर्गः प्रतिराज्यं चाल्यते ।
- सम्भाषणशिबिरचालकानां प्रशिक्षणकार्यक्रमः ।
- संस्कृतस्य प्रचारार्थं सरलसंस्कृतशिक्षणार्थं च अपेक्षितानि सर्वविधकौशलानि अधिगच्छन्ति ।
- शिक्षार्थिषु शिक्षणकौशलानि सहजतया सक्रान्तानि भविष्यन्ति ।
- दशदिनसम्भाषणशिबिरस्य सञ्चालनार्थम् अपेक्षितानि कौशलानि शिक्ष्यन्ते शिक्षार्थिनः ।
- शिक्षार्थिनः सरलसंस्कृतसम्भाषणे सुप्रशिक्षिताः भविष्यन्ति ।
- शिक्षार्थिनः आधुनिकाः भाषाशिक्षणपद्धतीः ज्ञास्यन्ति ।
4. शलाकापरीक्षा
- शलाकापरीक्षा पारम्परिकशास्त्राध्ययनस्य मूल्याङ्कनपद्धतिः।
- अत्र संस्कृतभारत्या प्रतिवर्षं व्याकरणे, न्याये, काव्ये च शलाकापरीक्षा आयोज्यते।
- परीक्षाम् उत्तीर्णवन्तः छात्राः मनोरमापुरस्कारेण सम्मान्यन्ते।.
- शास्त्राणाम् अध्ययने प्रवृत्तिवर्धनार्थम् एषा योजना।
5. व्याकरणवर्गः
- समये समये संस्कृतभारत्याः राज्यशाखाभिः आभारतं व्याकरणवर्गाः सञ्चाल्यन्ते।
- व्यकरणनिष्णातैः एषः वर्गः सञ्चाल्यते।
- संस्कृतव्याकरणस्य केचन मुख्यबिन्दवः अत्र पाठ्यन्ते।
- व्याकरणस्य मुख्यांशेषु अवधानं प्रदीयते।
- वर्गे शिक्षार्थिभिः अधीतविषयस्य पुष्ट्यर्थं विभिन्नप्रकारककार्याणि कार्यन्ते ।
6. काव्यास्वादनवर्गः
- सामान्यतया काव्यास्वादनवर्गः वर्षे विषयनिष्णातानां समयानुगुणं द्विवारं काव्यास्वादनवर्गः भविष्यति ।
- प्रायः दिनत्रयात् एकसप्ताहं यावत् भवेत् ।
- निश्चितं किञ्चित् काव्यं शिक्षणविषयत्वेन स्वीक्रियते ।
- प्रशिक्षणकाले निर्दिष्टकाव्यस्य गद्यभागः पद्यभागो वा समग्रं प्रतिपाद्यते ।
- काव्यस्थाः विभिन्नव्याकरणांशाः प्रयोगाश्च सुग्राह्यरीत्या पाठ्यन्ते ।
- कवेः विभिन्नाः दृष्टयः भावनाश्च आविष्क्रियन्ते ।
- प्रशिक्षणस्य अन्ते शिक्षार्थिनः कवेः काव्यचित्रणस्य शैल्याः स्थूलं रूपं ज्ञातुं काव्यसौन्दर्यम् अनुभोक्तुंच शक्ष्यन्ति ।
7. संस्कृतगृहम्
- यत्र गृहजनाः सर्वे संस्कृतेन व्यवहरन्ति तत् संस्कृतगृहम् ।
- गृहस्थबालानां मातृभाषा संस्कृतं भवति ।
- संस्कृतगृहाणां संख्या 2012 तमे वर्षे 1177 आसीत्, 2014 तमे वर्षे सा एव संख्या 1909 पर्यन्तं गता ।
8. संस्कृतग्रामः
- ग्रामवासिनः सर्वेऽपि सर्वविधव्यवहारं शुद्धया सरलया च संस्कृतभाषया कुर्वन्ति ।
- भारतस्य पञ्च ग्रामाः यत्र ग्रामीणाः सर्वेऽपि केवलं संस्कृते एव व्यवहरन्ति –
अ. मत्तूरु अथवा मुत्तूर (कर्णाटकम्)
आ. होसहल्ली (कर्णाटकम्)
इ. झिरि (मध्यप्रदेशः)
ई. मोहद (मध्यप्रदेशः)
9. भाषाव्युत्पत्तियोजना
- अस्मिन् कार्यक्रमे ये छात्राः प्रतिभावन्तः सन्ति प्रगताध्ययनं तथा शुद्धां निर्दुष्टां प्रवाहमयीं च भाषाम् अधिगन्तुमिच्छन्ति तेषां प्रशिक्षणं भवति।
- चितानां छात्राणाम् एकवर्षात्मकं प्रशिक्षणं दीयते।
- प्रशिक्षणं आवास-भोजनादिकं निश्शुल्कं भवति।
- पुरुषाः महिलाश्च पृथक्तया पृथककेन्द्रेषु च पाठ्यन्ते।
- प्रतिभागिनां संस्कृतसम्भाषणस्य प्राथमिकं ज्ञानं भवेत्।
- प्रशिक्षणानन्तरं एते प्रशिक्षार्थिनः संस्कृतस्य प्रसारे प्रचारे च अग्रेसराः भविष्यन्ति।
10. सरस्वतीसेवायोजना
- प्रमुखाधुनिकसाहित्यानां संस्कृते अनुवादार्थं योजना एषा समारब्धा।
- 150 ततोऽधिकपुस्तकानाम् अधुना अनुवादकार्यं प्रचलति।
- नूतनलेखकेभ्यः अवसरः, प्रोत्साहनं च अस्याः हेतुः। “शब्दशाला नैकविधानि नूतनपदानि नित्यव्यवहारोपयोगीनि आगतानि अस्माकं जीवने । अतः “शब्दशाला” योजना समारब्धा पाणिनीयनियमानुगुणम् आधुनिकपदजालस्य निर्माणार्थम् ।
11. संस्कृतविकीपीडिया
- विकीपीडियासंस्थाया सह कार्याचरणम्। विकीपीडियासंस्था बेंगलूरुनगरे 2010 जनवरी, 23 दिनाङ्के आरब्धा।
- संस्कृतप्रचारप्रसारदृष्ट्या संस्कृतभारती 50 अधिकान् पूर्णकालिककार्यकर्तॄन् अस्यां योजनायां योजितवती।
- अधुना भौगिलिकाः, ऐतिहासिकाः, स्वास्थसम्बद्धाः. सामाजिकाश्च 10,000 अधिकाः लेखाः संस्कृतविकीपीडियामध्ये योजिताः।
- संस्कृतविकीपीडिया सर्वाधिकगत्या वर्धमाना विकीपीडिया अस्ति।
- संस्कृतविकीपीडियाविषये ज्ञातुम् इच्छन्ति अथवा संस्कृतविकीपीडियाकार्यकर्ता भवितुं इच्छन्ति कृपया अत्र नुदन्तु