Top

इतिहासस्य अङ्गं भवितुम् इदम् आमन्त्रणम् ! अष्टात्रिंशतः वर्षेभ्यः पूर्वं संस्कृतं व्यवहारभाषां कर्तुं यः सामान्यः प्रयत्नः आरब्धः सः इदानीं संस्कृतस्य पुनरुज्जीवकं किञ्चन अभियानं संवृत्तम् । एतेन न केवलं राष्ट्रस्य पुनर्निर्माणम् अपि तु भारतीयसंस्कृतेः अपि विकासः भवति इत्येतत् निश्चितम् । भारतस्य उपत्रिसहस्त्रस्थानेषु, विश्वस्य १८ देशेषु च नियतरूपेण कार्यं कुर्वती संस्कृतभारती लक्षशः जनानां हृदयं स्पृष्टवती अस्ति । प्रायः संस्कृतभारत्याः ऋते तादृशी अन्या कापि संस्था न स्यात् या स्वेच्छया प्रवृत्तैः निष्ठावद्भिः कार्यकर्तृभिः चाल्यते ।


प्रत्येकमपि उत्साहिनः संस्कृतसमर्थकस्य स्वप्नः अस्ति यत् संस्कृतभारत्याः अन्ताराष्ट्रीयः मुख्यालयः देहल्यां भवतु इति । कार्यकर्तारः एतादृशस्य मानवकल्याणकारिणः महत्त्वपूर्णस्य कार्यस्य कृते उचितं स्थानं प्राप्तुं सदैव प्रयासरताः आसन् । अन्ततः देहल्याः मुख्यभूते दीनदयाल-उपाध्यायमार्गे ३८,३४३ स्क्वेर् फ़ीट् विस्तीर्णं स्थानं केन्द्रीयसर्वकारेण संस्कृतभारत्यै दत्तम् । देहल्याः अस्मिन् केन्द्रस्थाने संस्कृतभारत्याः अन्ताराष्ट्रीयमुख्यालयस्य निर्माणकार्येण सह इतिहासस्य एकं नूतनः चरणः अपि लिखितः ।

आगच्छन्तु अस्मिन् इतिहासे स्थानं प्राप्नुवन्तु । एषः इतिहासः आ अष्टात्रिंशतः वर्षेभ्यः प्रचलतः संस्कृतभारत्याः संस्कृतसम्भाषण-अभियानस्य निस्स्वार्थिनां समर्पणभावयुक्तानां लक्षशः कार्यकर्तॄणां त्यागस्य बलिदानस्य सेवायाः धनसमर्पणस्य च परिणामः अस्ति । एतदर्थम् अपेक्षितस्य धनराशेः संग्रहणम् अस्मदीयमेव उत्तरदायित्वम् अस्ति । एतद् धनं संस्कृतभारती crowd funding इति न, अपि तु समाजनिधिः इति मन्यते । एषः कार्यकर्तॄणां समूहः न केवलं कश्चन गणः अपि तु संस्कृतभारत्याः परिवारः । वयं सर्वे अस्य परिवारस्य अङ्गभूताः ।

आगच्छन्तु, अस्मिन् कार्ये सहकुर्वन्तु, अद्यावधि प्रवृत्तासु संस्कृतस्य परियोजनासु महत्तमायाः अस्याः परियोजनायाः समर्थनं पोषणं प्रोत्साहनं च कुर्वन्तु । आयान्तु, वयं सर्वे चिरस्थायिनः अस्य भवनस्य निर्माणार्थम् अपेक्षिताय मूलधनाय स्वीयं योगदानं कुर्मः । आयान्तु, विश्वस्य सर्वाधिकशोभमानायाः संस्कृतभाषायाः द्वारा भारतीयप्राचीनज्ञानस्य संरक्षणे प्रचारे च स्वीयं योगदानं कुर्वन्तु ।

आमन्त्रण है इतिहास का एक अंग बनने का ! ३८ वर्ष पूर्व, संस्कृत को बोल-चाल की भाषा बनाने का जो एक साधारण प्रयास आरम्भ हुआ था आज वह संस्कृत को पुनरुज्जीवित करने का एक अन्ताराष्ट्रीय अभियान बन गया है । इससे न केवल राष्ट्र का पुनर्निर्माण होगा अपितु हमारी संस्कृति का भी पुनरुत्थान होना निश्चित है । भारत में ३००० स्थानों पर विस्तार पाकर और विश्व के १७ देशों में नियमित कार्य करते हुए संस्कृतभारती ने लाखों लोगों के मर्म को स्पर्श किया है । कारण, संस्कृत भारत की आत्मा है ।


PROJECT DESCRIPTION
Samskrita Bharati - Is starting to construct its International Headquarters at 25 Deen Dayal Upadhaya Marg, New Delhi. Below are the features of the project
Plot Area: 1428 Sq. Meters (30 Meters * 47.60 Meters)
Max height: 26 Meter
Total Project Cost : 17 crore

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,