Category Archives: Articles

Inspirational blog articles by prominent Samskrita Bharati leaders on the movement.

Samskrita-pravesha

This is a new module where Sanskrit grammar is taught step by step. Online couses are on the process. Prospective students of Tamilnadu can register for the course in 044-28272632 / 9443722009. No prior knowledge of the language is needed. … Continue reading

Posted in Articles | Tagged | Leave a comment

10 days Spoken Samskrit class for Netaji vir Savakar vidyalay – AGARAM – Chennai

10 days Sanskrit camp was conducted for the teachers of Netaji vir savakar vidyalaya. Lakshmi bhagini and Nagarajanji conducted the Shibiram. The samarop was graced by Dr. Mohan (shikshana pramukh) of Samskrita Bharati. Ms. Kumudavalli, corrospondent of the school elaborated … Continue reading

Posted in Articles | Leave a comment

Five Days Orientation program conducted for Teachers of Vivekananda group of schools by Samskrita Bharati Chennai

Samskrita Bharati conducted orientation program for Vivekananda school teachers on teaching Bala Bharati (Easy samskrit for school children) at Ambattur and vyaasarpaadi. The program concluded today 11/4//2014 with Ex-Election-commissioner Shri. Gopalaswami and Samskrita bharati’s State Secretary Sri. Sriram as Chief … Continue reading

Posted in Articles | Leave a comment

Samskrita Bharati Tamilnadu is conducting 19th Teachers Training camp

Samskrita Bharati Tamilnadu is conducting a 10 days Teacher’s training camp at Etimadai Amritavidyalaya coimbatore. Students who are already studying in Samskrita Bharati, Teachers of samskrit, people with fair knowledge on Samskrit are most welcome for the camp. The Camp … Continue reading

Posted in Articles | Leave a comment

Chennai – Yugapadshibirams 2014

HariH OM! sarvebhyo namaskaraH, SamskritaBharati (SB) Chennai has been conducting simultaneous spoken samskrita workshops (yugapadshibirams) in and around Chennai city for the last several years at the beginning of the English New Year. This year also it is proposed to … Continue reading

Posted in Announcements, Articles | Leave a comment

(Samskritam संस्कृतम्‌) जम्मू अभियानम् – अनुभव कथनम्

 

हरिः ॐ ।

संस्कृतकार्यम् ईश्वरीयकार्यमिति चिन्तयन्तः संस्कृतभारत्याः बहवो कार्यकर्तारः जम्मू अभियाने भागं वोडुं भाग्यशालीनः आसन्निति वयं सर्वे जानीमः खलु?  यद्यपि अयं च अभिमानः प्रतिमानवं दृश्यते सति तथापि बहवो संस्कृतशिक्षकाः यत्किमपिकार्यवशात् तत्र गन्तुं आसक्ताः तूष्णीं स्वनिन्दां कृतवन्तः । क्लेषानिमान् वारयितुं परामर्शात्मक विशेषदर्शनरूपाया संस्मरणरूपाया जम्मूसंभागे आसमाप्ति मासत्रयं यावत् उषित्वा तमिल्नाडुराज्यतः भागं स्वीकृतवन्तः मोहन्महोदयस्य अनुभवकथनं ज्ञानकल्पनात्मक संनिकर्षणसाधनीभूतं भवितुमर्हति । सर्वेषां परिज्ञानाय इयं प्रस्तावना – अधोनिर्दिष्ट जालबन्धनं उपयुज्यताम् ।

Link to Jammu abhiyaanasya anubhava-kathanam in pdf.

कलिवरदः

संस्कृतभारती, चेन्नै

जम्मू अनुभवकथनम्

-   मनोरमा

जम्मू-काश्मीरराज्ये प्रचलित-संस्कृत-संभाषण अभियाने भागं स्वीकृत्य शिबिरं चालितं मम भाग्यम् इत्येव मन्ये । “सरस्वत्याः निवासस्थानम्, संस्कृत-पण्डितानां प्रदेशः, भूमातुः हिमाच्छादितः सुन्दरः अञ्चलः” एवं प्रसिद्धे स्थाने संस्कृतसेवा करणीया इति इच्छया तमिळुनाडुराज्यतः प्रस्थाय कार्यकर्तृभिः सह मया जम्मू-काश्मीर-राज्यं प्राप्तम् । एतावत् पर्यन्तं कृतस्य आन्दोलनकार्यस्य इति वृत्तं ज्ञात्वा, प्राप्त अनुभवं श्रुत्वा, कार्यक्षेत्रे उत्साहेन कार्यं कर्तुं प्रस्थितानाम् अस्माकं मनस्सु क्श्चन आनन्दः । वयं जम्मू प्रदेशे दिनद्वयं स्थित्वा तत्रत्यं प्रसिद्धम् अघोरेश्वरमन्दिरं रघुवीरमन्दिरं च दृष्ट्वा सन्तोषम् अनुभूतवन्तः । तत्रत्यं विपणिमार्गम् उभयतः हस्तेन निर्मितानि सुन्दराणि वस्त्राणि, स्यूताः, राङ्कवाः, पादमार्जन्यः. विविधानि आलङ्कारिकवस्तूनि अस्मान् आकर्षितानि । तेषां कौशलं दृष्ट्वा वयं चकिताः । ‘वैश्णवीमातुः दर्शनम्’ तत् वक्तुम् पदानि न सन्ति । अविस्मरणीयः अनुभवः । एकेन वाक्येन भक्तिभावेन तत्रत्याः जनाः यथा वदन्ति तथा वक्तव्यम् इत्युक्ते ‘जय् मातादी’ इति ।
अग्रे शिबिरसिद्धतां कृत्वा ‘कटुवा’ जिल्लां प्रति प्रस्थितवन्तः । प्रातः ‘महान्पुर’ मार्गेण ‘फिन्तर्’ इत्येकं प्रदेशं प्राप्तवन्तः । आगमनमार्गे वयं मार्गम् उभयतः ‘पर्वतानि, विविधाः वृक्षाः, रञ्जित्-सागर- जलबन्धः, यात्रिकाणां कृते कृतस्य भूजलव्यवस्था, कश्मल रहितः प्राणवायुः’ एवं प्रकृतेः वैभवं दृष्ट्वा मन्त्रमुग्धाः जाताः । फ़िन्तर् एतत् एकं वाणिज्यकेन्द्र्म्। एतं प्रेदेशं परितःअस्मासु केचन जनानां शिबिराणि आसन्। अत्रत्याः जनाः मुग्दाः। संभाषणशिभिरे भागं स्वीकृत्य संभाषणस्य अभ्यासं कृतवन्तः।
कदाचित् अस्माभिः आनीतवस्तूनि त्यक्त्वा अन्यत्र गमनसन्दर्भः । तदा तत्रत्याः केचन, “आपणस्य वितर्धेः उपरि स्थापयित्वा गच्छन्तु, कोsपि न स्वीकरोति” इति उक्तवन्तः । विश्वासं कृत्वा तथैव स्थापयित्वा गतवन्तः । आश्चर्यम्!, घण्टाद्वयानन्तरम् अपि वस्तूनि तत्रैव आसन् । एवं प्रामाणिकाः अत्रत्याः ।

यत्र मया वासः कृतः तत्र कदाचित् रात्रौ एकादशवादने गृहस्वामिनः मित्रात् दूरवाणी आगता । “मम परिचिताः केचन जनाः (एकस्य परिवारस्य षड् जनाः) कश्मीरं प्रति हरियाणराज्यतः गतवन्तः आसन् । तेषां रात्रौ प्रयाणं कर्तुं क्लेशः अस्ति यतः महती वृष्टिः अपि च रात्रिसमयः । कृपया अद्य भवतां गृहे भोजनव्यवस्थां कर्तुं शक्यते वा? तेषां निद्रार्थम् अन्यत्र कुत्रचित् व्यवस्थां करोमि । एकघण्टा अभ्यन्तरे गृहं प्राप्नुवन्ति” इति । तदा गृहजनानां निद्रार्थं सिद्धता प्रचलति स्म । (जम्मूप्रदेशे सूर्योदयः चतुर्वादने भवति, सूर्यास्तः अष्टवादने भवति) । गृहस्वामिन्याः प्रातः आरभ्य शिरोवेदना, महान् पीनसः, तथापि सन्तोषेण अङ्गीकृतवन्तः । नूतनतया पाकं कृत्वा प्रीत्या परिवेषितवन्तः । रात्रौ “निद्रार्थम् अन्यत्र गमनं मास्तु, अस्माकं गृहे एव वसन्तु” इति उक्त्वा पुनः प्रातः चतुर्वादने उत्थाय दूरगन्तॄन् तान् चायम् इत्यादि व्यवस्थां कृत्वा सन्तोषेण प्रेषितवन्तः । ये आगतवन्तः ते उक्तवन्तः यत् “भवताम् अतिथिसत्कारं कदापि न विस्मरामः यतः भोजनम् इत्यादि सर्वत्र लभ्यते, परन्तु भोजनेन सह मान-सम्माननम् अपि अस्माभिः प्राप्तम् । यद्यपि अपरिचिताः वयं तथापि द्वादशवादने अस्मान् आहूय, भोजयित्व, वस्तुं स्थलं दत्वा सत्कारं कृतवन्तः । एतत् कदापि न विस्मरामः । भवन्तः अपि अस्माकं हरियाण- राज्यम् आगत्य अस्माकं गृहे वासं कृत्वा अस्मान् तोषयन्तु” इति ।

कदाचित् मम वस्त्रफेनकं समाप्तम् आसीत् । मम वसतौ बालः आपणं प्रस्थितवान् आसीत् । अहं तस्मै धनं दत्वा “मह्यम् एकं वस्त्रफेनकम् आनीय ददातु” इति उक्तवती । सः धनं स्वीकृतवान् । तत् दृष्ट्वा गृहस्वामी तं तर्जयित्वा, “धनं प्रत्यर्पयतु, सा अस्माकम् अतिथिः । तस्याः सर्वस्याः आवश्यकतायाः पूरणम् अस्माकं कर्तव्यम्” इति उक्त्वा धनं प्रतिदापितवान् । मया यद्यपि बहु आग्रहः कृतः तथापि धनं न स्वीकृतवान् । तेषाम् अतिथिसत्कारं दृष्ट्वा मूकविस्मिता जाता अहम् । ‘अतिथिदेवो भव’ इत्येकं भारतीयानाम् चिन्तनम् अक्षरशः अत्र अनुभूतवती ।

अत्रत्याः जनाः भारतस्य अन्यत्र यथा पूजां कुर्वन्ति, पर्वाणि आचरन्ति, तथैव आचरन्ति । भक्त्तिः अस्माकम् अपेक्षया अधिका इत्येव वक्तव्या । ज्येष्ठान् यदा पश्यन्ति तदा बालाः युवकाः च पादं स्पृष्ट्वा नमस्कुर्वन्ति । तादृशः उत्तमः संस्कारः एतेषाम् अस्ति । एतेषां कालयापनस्य स्थानं मन्दिरम् इति वदामः चेत् दोषाय न भवति । यद्यपि सर्वजातीयाः सन्ति तथापि सर्वे शिवस्य, कृष्णस्य, रामस्य, आञ्जनेयेस्य, देव्याः च पूजां कुर्वन्ति । भारते सर्वत्र यथा तथैव अत्रत्याः पञ्चाङ्गं दृष्ट्वा (लक्ष्मी दिनदर्शिका) पूर्णिमा, अमावास्या, पर्वाणि, उपवासः, ज्येष्ठानां कार्याणि, दानधर्म, नवग्रहाराधनम्, शनिमहात्मनः पूजा, तैलदीपज्वालनम् इत्यादि च कुर्वन्ति । सर्वेषु मन्दिरेषु देवं स्पृष्ट्वा पूजाकरणपद्धतिः अस्ति । तथैव जलेन अभिषेकं अपि कुर्वन्ति । अत्र वैष्णवीमात्रे तथैव तस्याः अनुजायाः विलावर् ग्रामे मन्दिरे स्थितायाः सुक्रालामात्रे अतीवः विष्वासः दृश्यते । अतः एव सुदेशी, नरेशी, शिवा – एवं बालिकानां कृते नामकरणं कुर्वन्ति । अस्मिन् प्रदेशे अधिकानि नामानि संस्कृते एव सन्ति – आकृतिः, निवृत्तिः, प्रकृतिः, सर्वज्ञः इत्यादि । परन्तु उच्चारणं भिन्नम् अस्ति इति कारणतः अवगन्तुं किञ्चित् कालं स्वीकरोति । अत्र राम्देव् महारजस्य योगाभ्यासपठनम् अधिकतया दृश्यते । तथैव तेषां पतञ्जलि संस्थायाः उत्पन्नानाम् उपयोगः अधिकतया अस्ति ।

अस्माकं संस्कृतेः रक्षणं कर्तुं उत्साहः तथैव संस्कृतेः उपरि आघातः जायमानः अस्ति इति आतङ्कः अपि एतेषाम् मनस्सु अस्ति ।

अत्रत्यम् क्रैस्तविद्यालयं प्रदर्श्य कश्चित् उक्तवान् “भगिनि!, पञ्चाशत् लक्षरुप्यकाणां भूमीं, कोटीद्वयरुप्यकाणां दानस्य आशां प्रदर्श्य हिन्दुभ्यः क्रीतवन्तः सन्ति । एतस्य विद्यालयस्य आगमनानन्तरम् अस्माकं संस्कृतेः उपरि आघातः जायमानः अस्ति” इति । एतत् श्रुत्वा खेदः जातः ।

किञ्चित् गृहम् । तत्र भोजनर्थं गतवती आसम् । तत्रत्य- माता उक्तवती यत्, “भवन्तः संस्कृतं पाठयितुम् आगतवन्तः इति कारणतः बहु सन्तोषः जातः अस्ति । अस्माकं संस्कृतेः रक्षणार्थं संस्कृताभ्यासः निश्चयेन करणीयः । संस्कृतिरक्षणार्थं किमपि करणीयम् अस्ति । अस्माकं गृहस्य बालिका क्रैस्तानां विद्यालयं गच्छति । कदाचित् विद्यालयस्य वाहनम् एवमेव स्थगनं कृत्वा वाहनं नष्टम्, अग्रे न चलति अतः “भवतां देवान् अग्रे चालयतु इति प्रार्थयन्तु” इति उक्तवन्तः । बालाः तथैव कृतवन्तः । परन्तु यानं न चलितम् । तदा “इदानीं एसुं प्रार्थयन्तु, वाहनम् अग्रे चलति” इति उक्त्वा तेषां प्रार्थनानन्तरं वाहनं चालितवन्तः । एवम् अस्माकम् बालानां मनस्सु अस्माकं संस्कृतविषये देवानांविषये च हीनभावनायाः आनयनार्थं प्रयत्नः प्रचलति । एतेन मनसि बहु खेदः आसीत् । “भगिनि!, मम पुत्री बि.ए परिक्षां लिखन्ती अस्ति, अहं संस्कृत एम्. ए पठतु इति वदामि” इति उक्तवती । एतत् श्रुत्वा मम बहु सन्तोषः जातः ।

यत्र अहं वासं कृतवती तत्र ‘द्वितीयं पुत्रं सर्वे “स्वतन्त्रव्यक्तिः” इत्येव वदन्ति यतः सः तस्य इच्छया विना किमपि न अङ्गीकरोति इति । यदा सम्भाषणशिबिरम् आहूतं तदा सः न आगतवान् । परन्तु अस्माकं कार्यम् अवलोकयन् आसीत् । कदाचित् तेन सह संस्कृतकार्यस्य विषये सम्भाषणं कृतम् । अस्माकं कार्यस्य विषये सङ्घटनायाः विषये च बहून् प्रश्नान् पृष्टवान् । तस्मिन् विषये बहवः विषयाः मया उक्ताः । तदनन्तरं पञ्चदिनानि अर्धघण्टां यावत् आगत्य शिबिरे उपविशन् आसीत् । गृहगमनानन्तरं मम पठ्येपकरणानां विषये पाठनशैलीविषये च गृहजनान् वदति स्म । मम पठ्योपकरणानि स्वीकृत्य मात्रे प्रदर्श्य, तस्मिन् दिने श्रावितां कथां वदति स्म । आगमनसमये पठनानन्तरम् ‘अहमपि पूर्णावधिकार्यकर्ता भविष्यामि’ इति यदा तेन उक्तं तदा मनसि अतीवः आनन्दः जातः ।

शिबिरस्य समारोपकार्यक्रमे केनचित् उक्तं यत् “अन्यधर्मीयाः तेषां धार्मिकभाषां पठितुम् एकः सन्देशः प्राप्तः चेत् अपि श्रद्धया आगच्छन्ति विश्वासेन पठन्ति च । तादृशः उत्साहः अस्मासु अपि भवतु । उत्तमाः कार्यक्रमाः यदा भवन्ति तदा तस्य उपयोगः अस्माभिः प्राप्तव्यः” इति ।

गृहेषु मातॄणां प्रीतिविश्वासः अविस्मरणीयः । भोजनार्थम् आहूय विविधान् पाकान् कृत्वा परिवेषितवत्यः । अस्माकं विषये संस्कृत-आन्दोलन विषये च विचारितवत्यः । अस्माकं दक्षिणभारतपाकविषये ज्ञातुं खादितुं च तासां बहु इच्छा । तत्रापि दोसा, इड्ली, उपमा इत्यादीनां विषये ज्ञातुं बहु उत्साहः । वसतौ अस्माभिः विविधाः पाकाः कृताः । अस्मान् पृष्ट्वा दक्षिणभारतपाकविषये लिखितवत्यः ताः । एवम् उत्साहेण तत्र यापितानि दिनानि ।

अत्र सर्वकारीयाणाम् आपणेषु न्यूनमूल्येन वस्तूनि लभ्यन्ते । एककिलेमितस्य बासुमति-तण्डुलस्य मूल्यं पञ्चरुप्यकाणि । तथैव दशकिलोमितस्य गोधुमचूर्णस्य मूल्यं पञ्चाशीति रुप्यकाणि । अन्यत्र यथा अत्र मूल्यं तथैव । तत्र बहुविधाः औषधवृक्षाः सन्ति । तेषाम् उपयोगं ते जानन्ति । अत्र कृष्णनिम्बस्य वृक्षाः अधिकाः । परन्तु तस्य उपयोगं तस्य औशधीयगुणं च ते न जानन्ति । पाककरणे तस्य उपयोगः कथम् इति वयं सूचितवन्तः । तत् श्रुत्वा तेषां सन्तोषः आश्चर्यः च अभवत् । अत्र परितः अरण्यानि पर्वतानि च सन्ति । तत्र अरण्येषु पर्वतप्रदेशेषु च बहुजनाः भूमीम् आक्रम्य गृहनिर्माणं कृत्वा व्यवसायम् अजपालनं च कुर्वन्तः सन्ति इति अत्रत्याः वदन्ति । अत्र अधिकाः जनाः व्यापारं कुर्वन्ति । इण्डालीयं-लोहेन पेटिका इत्यादीनां निर्माणः तत्र तत्र विशेषतया दृश्यते ।

संस्कृतविषये वक्तव्यम् इत्युक्ते अत्र द्वादशवर्गात् संस्कृतं पठितुं शक्यते । पूर्वं संस्कृतपठनं पञ्चमवर्गात् आसीत् इति । गृहेषु समाजेषु च ‘डोङ्ग्री’ भाषायाः सम्भाषणम् अस्ति । तस्यां भाषायां संस्कृत शब्दाः न्यूनाः सन्ति । तस्याः भाषायाः अपि लिपिः अस्ति इति । परन्तु बहुजनाः न जानन्ति । तत्र तत्र एतस्याः भाषायाः पठन-पाठनं प्रचलति इति श्रूयते । अत्र आङ्ल-माध्यमेन पाठनं प्रचलति । उर्दु-भाषा पठनम् अनिवार्यम् । हिन्दी-भाषां केवलं भाषारूपेण पठन्ति । हिन्दीपठनं लेखनं च सर्वे सम्यक् न जानन्ति । हिन्दी-भाषायां विद्यमानानां संस्कृतशब्दानां स्थाने उर्दुशब्दाः सन्ति । गृहेषु संस्कृत-श्लोकानां स्थाने हिन्दीगीतानि सन्ति । संस्कृत- श्लोकान् सुभाषितानि च ज्ञातारः ज्येष्ठाः तत्र तत्र मिलन्ति । वातावरणे संस्कृतं न्यूनम् अस्ति इति कारणतः अवगन्तुम् अधिकसमयं स्वीकुर्वन्ति परन्तु वक्तुं निश्चयेन समर्थाः सन्ति । तेषां संस्कृतभाषायाः पठने विद्यमानां प्रीतिं दृष्ट्वा आश्चर्यं भवति । शिबिरसमये विद्युत् अभावे अपि (व्यजनम्) महतः आतपस्य कष्टं सहन्तः घण्टाद्वयम् उपविश्य संस्कृतपठनस्य तेषां श्रद्धा श्लाघनीया ।

पुनः पुनः एवं संस्कृतपाठनस्य प्रयत्नः यदि अत्र प्रचलति तर्हि संस्कृत्यां विद्यमानः संस्कृतभाषायाः सुगन्धः पुनरेकवारं सर्वत्र प्रसरति इत्यत्र नास्ति सन्देहः । यद्यपि वातावरणे संस्कृतम् अधिकं नास्ति तथापि संस्कृतविषये प्रीतिः, श्रद्धा, पठनस्य इच्छा च अवर्णनीया । एषा भाषा अस्माकं भाषा । एतस्याः भाषायाः वर्धनार्थं अस्माभिः प्रयत्नः करणीयः इति चिन्तयन्ति । कन्याकुमारीतः काश्मीरपर्यन्तं समानाः आचाराः विचाराः, संस्कृत-संस्कृति-विषये समाना श्रद्धा च अस्ति । ‘अस्मासु नास्ति च भेदः’, एषा भावना अत्र अस्माभिः अनुभूता । संस्कृतभाषा प्रीतिः समग्रं देशम् एकस्मिन् सूत्रे बद्धम् अस्ति इत्यत्र नास्ति सन्देहः ।
॥ जयतु संस्कृतम्, जयतु भारतम्, जयतु मनुकुलम् ॥

इति मनोरमा

Posted in Articles | 5 Comments