Gujrate Samskrutotasv & Gandhinagare Vidusham samman

Share on Facebook
Bookmark this on Google Bookmarks
Buzz This
Bookmark this on Digg
Bookmark this on Delicious

गुजराते संस्कृतोत्सव:

 

गुजरातसर्वकारस्य सांस्कृतिकप्रवृतिविभाग: संस्कृभारती इत्यनयो: संयुक्तोपक्रमेण जुनमासस्य विंशे दिनाङ्के संस्कृतोत्सव: गान्धिनगरे सम्पन्न: । कार्यक्रमेऽस्मिन वेदशास्त्रपण्डितानां सम्माननं साहित्यगौरवपुरस्कारश्च विद्वभ्द्य: प्रदत्त: । वर्षेऽस्मिन्  स्वामिविवेकानन्दजन्मन: साधैंकशतीम् आचरता सर्वकारेण कश्चन नूतन: युवगौरवपुरस्कारोऽपि प्रदत्त: । कार्यक्रमे मुख्यमन्त्री श्री नरेन्द्रमोदी उपस्थित: आसीत् । सांस्कृतिकविभागमन्त्री श्री फकिरभाईवाघेला: शिक्षणमन्त्री श्री जयसिंहचौहण: सोमनाथ सं.वि.वि. कुलपति  श्री वे.कुटुम्बशास्त्री, गिरिशठाकर: च उपस्थिता: आसन् । साधैंकसहस्त्राधिका: कार्यक्रमे संस्कृतानुरागिण: उपस्थिता: आसन् । युवगौरवपुरस्कारं श्री मिहिरोपाध्याय: प्राप्तवान्  । श्री भाग्येशजह: सर्वान् शब्दै: स्वागतीकृतवान् । संस्कृतगौरवपरीक्षाया: श्रेष्ठानां केन्द्रसञ्चालकानामपि सम्माननं मान्येन मुख्यमन्त्रीणा कृतम् । कार्यक्रमस्य सञ्चालनं गोपलोपाध्यायेन कृतम् ।

 

गुजराते गान्धिनगरे विदुषां सम्मान:

 

जुन् मासस्य २० दिनाङ्के गुजरातप्रान्तस्य गान्धिनगरे मुख्यमन्त्रिणा श्री नरेन्द्रमोदिवर्येण विदुषां सम्माननं कृतम् । गुजरातराज्यस्य नैयायिकवेदान्ती प्रा. लक्ष्मीशजोशिवर्य: यजुर्वेदपण्डित: श्री जयानन्दशुक्लवर्य:, ऋग्वेदपण्डित: श्री भगवनलालशुक्ल:, ज्योतिष्यपण्डित: श्री इन्द्रवदनभट्ट: च सम्मानिता: । 

 

This entry was posted in News. Bookmark the permalink.

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>