A Sanskrit-Speaking Village in Assam

असमप्रान्ते महानदस्य ब्रह्मपुत्रस्य तटे ’गमिरि’ इति नाम्नैको ग्रामः वर्तते । तत्र गावः पादचारिणो द्विचक्रिकाश्चाविशालेषु मर्गेषु संचरन्ति । अल्पाल्पानि कार्-वहनानि दृश्यन्ते । अत्युन्नता वंशवृक्षा आकाशं स्पर्शन्तीव । ताम्बूलवृक्षाः पूगीफलानि नागवल्ल्यश्च भूरी वर्तन्ते । चैपत्रवृक्षाणामावलयो मनः हरन्ति । सर्वत्र हरितवर्णमया प्रकृतिरेव विलसति । नदस्य प्लावनात्तु जना दरिद्राः सन्ति । प्रतिवर्षं जलौघस्य कारणात् केषांचित् जनानां गृहाणि भ्रष्टाणि भवन्ति।

“एषः साधरणोऽसमप्रान्तवर्ती ग्रामः” इति कोऽप्यत्र प्राप्य एतत् सर्वं दृष्ट्वा च मन्यते ।

किन्त्वत्र जनाः ’सेल् रोटि’ (एकं खाद्यविशेषं यत् नेपालीसमाज एव विद्यते) अतिथिभ्यो परिवेषयन्ति । अत्र यान्यङ्गवस्त्राणि दत्तानि तानि नेपालीरीत्या निर्मितानि । किमर्थं ? यतः ग्रामिणः प्रधानतया नेपालीजनाः । तेषां पूर्वजाः बहोः कालात् पूर्वमत्रागत्य निवासं कृतवन्तः । इदानीं पर्यन्तमेते जनाः नेपालीभाषां रक्षित्वा गृहस्य अन्ततो बहिश्च वदन्ति । एतेनैव प्रकारेण ते ग्रामिणः कामप्यन्यां भाषां रक्षन्तः प्रतिदिनं वदन्ति । एषा भाषा का? संस्कृतभाषैव ।

तत्र गृहेषु मार्गेषु च संस्कृतं श्रोतुं शक्यते । यद्यपि संस्कृतग्रामः संपूर्णतयाद्य पर्यन्तं नाभवत् तथापि संस्कृतमयं वातावरणमनुभवितुं शक्यम् । लघवो बाला वृद्धाः पितामहाश्च संस्कृतवार्तालापं कुर्वन्ति  । पाकशालासु सभासु कक्षासु च संस्कृतं श्रूयते । येऽपि जनाः संस्कृतं न वदितुं शक्नुवन्ति ते संस्कृतमवगन्तुं प्रभवन्ति ।

कस्मात् कारणादेषा शुभा परिस्थितिरुत्पादितास्ति ? अत्र द्वे संस्थे परिश्रमेण संस्कृतप्रसारं कुर्वन्तः सन्ति – संस्कृतप्रसारिणीसभा संस्कृतभारती च । अस्मिन् लेखे संस्कृतभारत्याः परिचयो नावश्यकः । संस्कृतप्रसारिणीसभा त्वविदिता स्यात् ।

१९९७-तमवर्ष एतस्याः संस्थाया उत्पत्तिरभवत् । तस्याः प्रमुखौ नायकौ डा. शिवाचार्यमहोदयः श्रीतुलसीशरण-उपाध्यायमहोदयश्च । एतयोः मार्गदर्शित्वेन संस्थाया वृद्धिर्जाता । सभायाः सदस्याः संस्कृतशिबिराणि चालयन्ति संस्कृतमहोत्सवाः सम्पादयन्ति संस्कृतपुस्तकानि प्रकाशयन्ति च । “संस्कृतपत्रिकायाः प्रकाशनं भवेत्, संस्कृतसङ्गीतस्य ध्वनिमुद्रिकायाः निर्माणं भवेद्” इत्यादि संस्थाया अन्यान्यपि लक्ष्यानि सन्ति । धनं प्राप्तं चेद् एतान्यप संस्कृतकार्याणि ते निश्चयेन करिष्यन्ति ।

ग्रामस्य विषये लक्ष्यं किम् ? सर्वेषु गृहेषु सर्वेषु मार्गेषु च संस्कृतं श्रूयादिति तेषामाशा । यथा नेपालीभाषा नेपालीसंस्कृतिरत्र सुरक्षिता वर्तते तथैव संस्कृतभाषा संस्कृतसंस्कृतिरपि एतैर्ग्रामिणिभिः सुरक्षिता सर्वदा भवेत् ।

This entry was posted in Articles. Bookmark the permalink.

21 Responses to A Sanskrit-Speaking Village in Assam

  1. Amit bhardwaj says:

    shobhanah gramah . aham drashtum ichchami , jivane kdachit tatra gatwa ekam shambhashan shiviram chalyitum ichchami .kim evam bhavitum shkyate ?

  2. sandhya jadhav says:

    samichinam

  3. bhupender sharma kurukshetra says:

    ativ sobhnam bartsya sarve grama sanskrit grama bavantu
    tata ramrajaym bavisati.om

  4. sivaramakrishnasimha says:

    mahan santoshah. anena gnayete yeshaa matrubhasha bahutra.

  5. kushal dev says:

    ati shobhanm karyam punh bharte sanskritm bhavisyati

  6. Dr.Tagsingh Rajpurohit says:

    गमिरिग्रामं संस्‍कृतग्रामं कर्तुं य: प्रयास: क्रियते स: प्रशंस्‍य:। अनेन अन्‍ये अपि सम्‍प्रेरिता: भवेयुरिति शम्।

  7. S.Narasimhan says:

    aham atra samskrta bhashayAm likhitum na jAnAmi. tathApi Angla lipi mAdhyamena likhitum vyavasito’smi. samskrta prachAriNI sabhAyah paris’ramah atra bahus’lAghanIyo’sti. esha paris’ramah phalavato bhavet iti vis’vasimi. dhanyavAdAh.

  8. Pramode Jain says:

    साश्चार्यं सुखं अनुभुतम इदं ज्ञात्वा….साधु प्रयास:….

  9. Dr.Shriharsha Sharma says:

    I am delighted to know about this Sanskrit speaking village in Assam.
    There are two Sanskrit speaking villages in Karanataka and two in Madhyapradesh and one in Rajasthan.
    Sanskrit was the link language until 11th. century and in recent years Snskrit is being learnt, taught more and more in Bharat and in many countries.
    The king of Thailand and president of Greece speak fluent Sanskrit.
    The Sanskrit has the capacity to become our national language if we start learning and use it .
    This will make us more civilised and crimes and violence will reduce to 10% according to research because those who learn and use Sanskrit do not indulge in crimes.

  10. dineshah pandeyah says:

    लेखनं पठित्वा महान् प्रमोदः जातः। सर्वत्र प्रसरतु गीर्वाणभाषासुगन्धः ।

  11. Vivek says:

    If the villages change their view in the course time and try to create more and more Sanskrit speaking people in the country, no any power can hinder Bharatmata to acquire absolute fortune (param vaibhavam)

  12. ASHOK GIRI GOSWAMI says:

    तत्र गृहेषु मार्गेषु च संस्कृतं श्रोतुं शक्यते । यद्यपि संस्कृतग्रामः संपूर्णतयाद्य पर्यन्तं नाभवत् तथापि संस्कृतमयं वातावरणमनुभवितुं शक्यम् । लघवो बाला वृद्धाः पितामहाश्च संस्कृतवार्तालापं कुर्वन्ति । पाकशालासु सभासु कक्षासु च संस्कृतं श्रूयते । येऽपि जनाः संस्कृतं न वदितुं शक्नुवन्ति ते संस्कृतमवगन्तुं प्रभवन्ति ।

  13. ASHOK GIRI GOSWAMI says:

    चैपत्रवृक्षाणामावलयो मनः हरन्ति । सर्वत्र हरितवर्णमया प्रकृतिरेव विलसति । नदस्य प्लावनात्तु जना दरिद्राः सन्ति । प्रतिवर्षं जलौघस्य कारणात् केषांचित् जनानां गृहाणि भ्रष्टाणि भवन्ति।

  14. ASHOK GIRI GOSWAMI says:

    किन्त्वत्र जनाः ’सेल् रोटि’ (एकं खाद्यविशेषं यत् नेपालीसमाज एव विद्यते) अतिथिभ्यो परिवेषयन्ति । अत्र यान्यङ्गवस्त्राणि दत्तानि तानि नेपालीरीत्या निर्मितानि । किमर्थं ? यतः ग्रामिणः प्रधानतया नेपालीजनाः । तेषां पूर्वजाः बहोः कालात् पूर्वमत्रागत्य निवासं कृतवन्तः । इदानीं पर्यन्तमेते जनाः नेपालीभाषां रक्षित्वा गृहस्य अन्ततो बहिश्च वदन्ति । एतेनैव प्रकारेण ते ग्रामिणः कामप्यन्यां भाषां रक्षन्तः प्रतिदिनं वदन्ति । एषा भाषा का? संस्कृतभाषैव ।

  15. satya says:

    asmin grame kathi janaha samskriten vadanti ethi suchayatu.

  16. के एन् सूर्यनारायणः says:

    लेखनं पठित्वा महान् प्रमोदः जातः। सर्वत्र प्रसरतु गीर्वाणभाषासुगन्धः ।

  17. c.l.n.moorty says:

    Assama deshe sthitam samskrita gramam Gamirim varnayan likhitam lekhanam pathitva atiiva pramodah jaatah. Samskrita prasarini sabham tasyah sevayai abhinandanam karomi. jeeyat girvana bharati.

  18. खेमराजः says:

    महोदये!भवत्या अनुभूतं गमिरि विषयकं लेखं पठित्वा गौरवास्पदाः जाताः।भवत्यै धन्यवादः।

  19. संस्कृतग्रामं तत्रत्यानां जनानां चरित्रं व्यवहारशैलीं गृहेषु संस्कृतभाषायाम् आसक्तिं च दृष्ट्वा कर्णाटके मत्तूरु नामको संस्कृतग्रामः स्मारितोऽस्ति। ग्रामे ग्रामे एवं भूयादिति आशासे।

  20. priyanka mujumdar says:

    samyak!

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>