मे मासे काव्यास्वादनवर्गौ दिल्लीनगरे मङ्गलूरुनगरे च संस्कृतभारत्या योजितौ । द्वयोर्वर्गयोर्विश्वासमहोदयश्चम्पूरामायणकाव्यस्य बालकाण्डं पाठयति स्म । एषो लेखः मङ्गलूरुनगरवर्गं वर्णयति ।
विंशत्यधिका जना वर्गार्थं भिन्नेभ्यो प्रदेशेभ्यो मङ्गलूरुनगरमागतवन्तः । वर्गः कथं भविष्यतीति केनापि न ज्ञातमासीत् । केचन चम्पूरामायणं पूर्वमेव पठितवन्तः । केचन काव्यविषये किमप्यजानन्तो गुरुनियोगेनानुसृत्यागतवन्तः । वर्गस्यैकं दिनं गत्वा पश्यामीत्यन्ये चिन्तयन्त आगच्छन्त आसन् ।
किन्तु प्रथमाद् दिनादेव विश्वासाचार्य इन्द्रजालिक इव सर्वेषां विस्मयं सन्तोषं च सम्पादितवान् । प्रतिपद्यस्य प्रतिगद्यस्य चाचार्यः शब्दमधुर्यं चमत्कारत्वं रससारं च दर्शयित्वा सर्वान् आनन्दयति स्म । पञ्चमं (अन्तिमं नाम) दिनं पर्यन्तं सर्वे तं श्रुन्वन्तश्चकिताः स्मितयुक्ता उपविशन्तो वर्तन्ते । तस्य पाठेन भोजराजस्य काव्यं सजीवमभूत् ।
प्रतिनिधयो विविधा आसन् । केचन वृद्धाः कार्यनिर्वृत्ताः, अन्ये षोडशवर्शीया विद्यालयछात्राः । केषांचन गृहं पञ्चकिलोमिटरेव दूरम्, अन्येषां पञ्चशतकिलोमिटर्दूरम् ।
एकः प्रतिनिधिर्गौतमनामधेयो हरियाणप्रदेशीयः । तस्यानुभवं वर्णयन् स उक्तावान् – “समान्यरूपेण वयं जानीमो भारतीयसंस्कृतेर्ज्ञानं संस्कृतभाषायामेव विद्यत इति । एतत् कार्यार्थमेतादृशस्य शिबिरस्य महत्युपयोग्यता भवति । बहु सम्यग् उत्साहवर्धनं चासीदिति तत्र ममानुभवः शिबिरविषये । शिबिरमाध्यमेनाहं संस्कृतभाषाया ज्ञानं भूमिकारूपेण प्राप्तम् । एतदर्थं विश्वासमहोदयायायोजकेभ्यश्च धन्यवादं समर्पयामि” इति ।
द्वे महिले केरलप्रदेशाद् आगवत्यौ । एकया मालिनीनाम्न्योक्तं “वर्गोऽयमतिसुन्दरः रमणीयोऽभूतपूर्वो दायकश्चासीद्” इति ।
भैरप्पमहोदयः सर्वकारीयपदवीपूर्वविद्यालये हासननगरस्थे संस्कृताध्यापकरूपेण कार्यं करोति । सोऽपि काव्यस्वादनवर्गस्य कृते मङ्गलूरुनगरमागात् । “भारते अद्य संस्कृतम् अध्येतारः जनाः यद्यपि अनेके सन्ति तथापि संस्कृतस्य काव्यानां अध्येतारः न्यूनाः एव, अस्य कारणं तु पाश्चात्य संस्कृतेः दुष्प्रभावेन अस्माकं प्राचीन काव्येषु अभिरुचिः संस्कृतज्ञेषु एव विनष्टा वर्तते । अतः अस्माकं प्राचीनकाव्यस्य विषये संस्कृतज्ञानां जगरणार्थं संस्कृतभारती द्वारा यः चम्पूरामायणस्य काव्यास्वादनवर्गः यः मङ्गलूरुजनपदे गते मे मासस्य अन्तिमे सप्ताहे प्राचलत् सः संस्कृतज्ञानां आपन्नमरणकाव्यास्वादनमनोरथस्य संज्ञीविनी इव आसीत् इति वक्तुं मम मनः अतीवं हर्षतुन्दिलं वर्तते” । इति भैरप्पमहोदय एतं वर्गमधीकृत्य लिखितवान् ।
उमामहेश्वर इति नाम्ना व्याकरणछात्रः स्वानन्दं प्रकटितवान् – “संस्कृतसम्भाषणतः काव्याध्ययनं ये कुर्वन्ति तेषां कृते एषो वर्गो बहु लाभायाभवत् । देशे विविधेषु प्रदेशेष्वेतादृशाः काव्यशास्त्रवर्गाः संस्कृतभारतीत्यादिभिः संस्थाभिरायोजनीयाः । तदैव संस्कृतस्य शास्त्रसाहित्यपरंपरायाः काव्यप्रौढिमायाः काव्यवस्तुनश्च विस्तारोऽवगम्यते” इति ।
तथैव प्रतिनिधयः स्वानन्दानुभवान् प्रकटितवन्तः । अन्ते सर्वेऽप्यत्यन्तं धन्यवादं समर्प्य चम्पूरामायणस्य कानिचित् पद्यानि जपन्तः स्वस्थानं गतवन्तः । शीघ्रमेव बहव एतादृशाः काव्यास्वादनवर्गा भविष्यन्तीति सर्वेषामिच्छा ।

very good work for sanskrit lovers
बहु सुन्दरम् अस्ति । एतादृशाः काव्यालापवर्गाः देशे सर्वत् भवतु । लक्षाधिक-कार्यकर्तारः संस्कृतभारत्याः काव्यपठनेषु
उत्सुकाः भवेयुः । तेषां कार्यसामर्थ्यं सम्भषणसामर्थ्यमपि वर्धते ।
I am glad to go through this article on ‘Kavyasvadana varga’ held at Mangalore. Surely, the classes of Sri Vishwasa transports us to the dream land of Samskrit at its best. Venetia has once again shown her commitment and and determination to the cause of samskrit.
Let more scholars come forward to teach whatever they are good at and also all samskrit lovers learn from them to the best of their ability.