Book Review of Adrshyam

Share on Facebook
Bookmark this on Google Bookmarks
Buzz This
Bookmark this on Digg
Bookmark this on Delicious

लेखकः – राधिकारञ्जनः दासः

प्रकाशकः – संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी

प्रथमसंस्करणम् २०११

रु ८०/-

यदि भवतो भयं सुलभेनोत्पद्यते तर्ह्येतत् पुस्तकं मा पठतु । एतस्य पुस्तकस्य लेखकः, राधिकारञ्जनदासमहोदयः, त्रिंशद् अदृश्यलोकसम्बन्धिकथाः सरलसंस्कृतभाषायां रचितवानस्ति । बालेभ्यो लिखिता अप्येताः कथाः सर्वेभ्यो रोचयिष्यन्ते ।

अस्मिन् ग्रन्थे काश्चन अतीवभयङ्कारा भूतकथाः सन्ति । एताः पठित्वा प्रायः रात्रौ सुशयनं न भवति ।’क्षुधा’ इत्येतस्यां कथायामेकस्य ग्रामस्य निवासिनोऽतिक्षुधाहेतोर्मृता आसन् । शैलेशो दूर्गपूजावासरे तत्रस्थं गृहमगच्छन् अस्ति । तत्र स्वपरिवारं छायारूपं दृष्ट्वा भीतो ग्रामाद् धावन् निर्गच्छति । दिने दिने ग्रामस्य स्थाने हिंस्रलतासहितं जङ्गलं भवति । यः कोऽपि वनं प्रविशति स बहिर्नागच्छति । अन्ते शैलेशः पत्न्या सह तत् स्थानं प्रतिगन्तुं निश्चिनोति । तौ भक्ष्यवस्तून्यानीय जङ्गलं प्रविश्य लताभ्यो ददतः । हानिं विना निर्गच्छतश्च । परदिने भोजनस्य पञ्चदशशटकानि स्वीकृत्य प्रतिगच्छतः । लताः सर्वं भोजनं लब्ध्वा तृप्ता क्षुधाहीना भवन्ति ।

एवमेव बहूनि कथनानि गुह्यविद्याया वर्णनं कुर्वन्ति । तेषामुत्तमोऽन्तिमः कथानकः । एतस्यां कथायां केनाप्यातङ्कवादिना विमाने स्फोटा योजिता आसन् । केभ्यश्चिन् निमेषेभ्यः परं ते स्फुटित्वा सर्वान् अल्लानिकटं प्रापयिष्यन्तीति आतङ्कवादी वदति । दिल्लीविमानपत्तने कोऽपि पण्डितो मन्त्रं पठित्वा विमानचालकं यन्त्रं सम्पादित्य तस्य मानसद्वारैव स्फोटानन्विष्य प्राप्नोति । अन्तिमक्षणे विमानचलकः स्फोटान् नाशयित्वा सर्वेषां विमानयात्रिणानां प्राणान् रक्षति ।

अन्यासु कथासु विचित्रा घटनाः वर्तन्ते । अस्ति प्रसिद्धा भारतीया वैज्ञानिका । एकदा सापार्थिवैः सह सम्भाषणं कृत्वा सम्मेलनं योजयति । निश्चितकाले भूमिप्राप्तानां तेषां ध्वनिः श्रूयते परन्तु दृष्टिगोचरं नागच्छन्ति । तस्मिन् क्षण एव कस्याश्चिद् वेदनाया निवारणार्थं सा स्वनेत्रं मृद्नाति । अकस्मादपर्थिवा आक्रमणमनुभूय प्रतिहिंसं करिष्यामः इति वदन्ति । अन्ततः सा वैज्ञानिकावगच्छति – ते अणुमात्रिकास्तस्या नेत्र एव उत्तरणादेवं वदन्ति ।

दासमहोदयेन सरलसंस्कृतभाषायां लिखिताः कथा भयमाश्चर्यमविश्वासं चोत्पादित्य मनः आकर्षयति । लेखकेन कथाः कुतो लब्धाः – तस्य कल्पनाशक्त्या, स्वानुभवेन, अन्यत्र कुत्रापि वा – इति न ज्ञायते । परन्तु एतस्य पुस्तकस्य मध्ये कदापि न त्यक्तुं श्क्नुमः । अत्र सन्देहलेशो न भवति ।

This entry was posted in Articles. Bookmark the permalink.

5 Responses to Book Review of Adrshyam

  1. उपरि पत्रे बहवः दोषाः सन्ति । कृपया तान् परिष्कृत्य पत्रं स्थापयन्तु, सम्यग् भवेत् ।
    धन्यवादः ।
    रामकृष्णः ।

    • Venetia says:

      नमस्ते महोदय
      दोषाः स्युः – संस्कृतज्ञानमल्पमेव अस्ति मम । कृपया के के दोषाः सन्ति इति मां निवेदयतु । ततः परिष्कृत्याहं पुनः स्थापयिष्यामि ।
      email address – venetia@rasalabooks.com
      धन्यवादः
      विनीश्या

  2. सुब्रह्‍मण्यः says:

    उत्तमम् लेखनम् ।
    एतत् पुस्त्कम् संस्कृत-भार्त्याः ‘अक्षरम्’ कार्यालये प्राप्यते वा ?

  3. Raj Kotaru says:

    kutra labhate pustakametat?

    • नमस्ते महोदय
      पुस्तकस्य लेखकस्य सम्पर्कं कृपया करोतु –

      Radhikaranjan Das. Sri Aurobindo Ashram. Pondicherry 605002. Ph: 75984 94335 rr.kalidas@gmail.com

      धन्यवादः
      विनीश्या

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>