Tamilnadu 2012 Prasikshana shibiram

Share on Facebook
Bookmark this on Google Bookmarks
Buzz This
Bookmark this on Digg
Bookmark this on Delicious

 

 

 

 

 

2012 प्रशिक्षण-शिबिरस्यवृत्तम्

तमिल्नाडु-प्रान्तस्य सप्तदशं शिक्षकप्रशिक्षणशिबिरं गते मे-मासे १७त: २६ पर्यन्तं १० दिनानि यावत् राजपालयस्थे अम्मणि-अम्माल्-विद्यालये विमर्शया प्रवृत्तम् ।

वर्गाधिकारिरूपेण प्रान्तकार्यदर्शी डा.रा.रामचन्द्रवर्यः मार्गदर्शनम् अकरोत् । प्रशिक्षणशिबिरस्य व्यवस्थां परिकल्पितवन्तौ प्रान्त-पत्राचारप्रमुखः श्रीमान् हरिकुमारवर्यः प्रान्तप्रकल्पप्रमुखः श्रीमान् मुरलीकृषणवर्यः च । भागगृहीतृषु ३५० जनेषु ७० जनाः कार्यकर्तारः आसन् । २२ जनपदतः ३४ कार्यस्थानतः प्रातिनिध्यम् आसीत् ।

उद्घाटनसत्रे संस्कृतभारत्याः अखिलभारतप्रशिक्षणप्रमुखः डा.विश्वासवर्यः उपस्थाय मार्गदर्शनम् अकरोत् । तृतीये दिने इतिहास-सङ्कलन-समितेः टी.वी.रङ्गराजः तमिल्भाष्या भारत-इतिहासे संस्कृतस्य स्थानम् इति विषयम् अधिकृत्य अभाषत । सप्तमे दिने  राष्ट्रिय-स्वयंसेवकसङ्घस्य दक्षिणक्षेत्र-प्रचारकः स्थानुमालयवर्यः स्ववचोभिः (तमिल्भाषया) कार्यकरणाय शिक्षार्थिनः प्राचोदयत् । तस्मिन्नेव दिने संस्कृतभारत्याः अखिलभारतमहामन्त्री डा.नन्दकुमारवर्यः प्रेरणाभाषणम् अकरोत् । अष्टमेदिने सर्वशिक्षार्थिभिः अपि गृहसम्पर्कं कृत्वा ७०० ’वदतुसंस्कृतम्’- पुस्तकानि विक्रीतानि । तस्मिन्नेवदिने मध्याह्ने मातृभोजनम् आसीत् । ६० अधिकाः मातरः आगत्य सर्वशिब्रस्थेभ्यः भोजनं परिवेषितवत्यः । पुनः शिबिरस्थानांपरिवेषणेन मातरः खादितवत्यः। १० दिन प्रशिक्षणशिबिरस्य परिणामि-रूपेणप्रान्ते ५ अभ्यासशिबिराणि ३५ बालकेन्द्राणि च निश्चितानि ।

२७ दिनाङ्के कार्यकर्तॄणां प्रान्तगोष्ठी समभवत् । प्रवृत्तस्य प्रशिक्षणशिबिरस्य अवलोकनं तथा अग्रिमवर्षस्य योज्नां च कार्यकर्तारः
कृतवन्तः । मेलनेऽस्मिन् ’राम्को’ संस्थायाः अध्यक्षः श्रीमान्-रामसुब्रह्मण्यन्-राजु-महोदयः सुदर्शनामात्रा सह सन्निधाय कार्यकर्तॄणां प्रोत्साहनं वर्धयित्वा ततः निरगच्छत् ।

 

About Samskrita Bharati Tamilnadu

Tamilnadu unit of Samskrita Bharati
This entry was posted in News. Bookmark the permalink.

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>