नमो नमः
संस्कृतभारती – अडयार प्रदेशस्य सामूहिकवर्गः
एप्रिल् मासस्य २९ दिनाङ्के चेन्नै नगरस्थे अडयार् प्रदेशे अर्धदिनात्मकः सामूहिकवर्गः सम्पन्नः ।
उपचत्वारिंशत् छात्राः दश कार्यकर्तारः च भागं स्व्यकुर्वन् ।
तमिल्नाडु-प्रान्त-कार्यदर्शी र. रामचन्द्रमहोदयः सन्धिं च श्लोकान्वयरचनां च अपाठयत् ।
छात्राः सामूहिकगीतं सम्भाषणप्रदर्शनं लघुनाटकानि च सोत्साहं प्रादर्शयन् ।
रामचन्द्रमहोदयः स्व-भाषणे अस्मदीयप्रचीनायाः परम्परायाः रक्षणार्थं संस्कृतभाषायाः पठन-पाठनावश्यकताम् उद्दिश्य
छात्रान् प्रैरयत् ।
